(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.61. अध्यायः 061
Mahabharata - Vana Parva - Chapter Topics
नलमन्वेषयन्त्या दमयन्त्या वनमध्ये हस्त्यश्वरथसंकुलजनसार्थदर्शनम् ॥ 1 ॥ तथा सार्तनाथेन संभावणम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text

बृहदश्व उवाच। 3-61-0x(1934)(18151)
सा निहत्य मृगव्याधं प्रतस्थे कमलेक्षणा।
वनं प्रतिभयं शून्यं झिल्लिकागणनादितम् ॥ 3-61-1(18152)
सिंहद्वीपिरुरुव्याघ्रवराहर्क्षगणैर्युतम्।
नानापक्षिगणाकीर्णां म्लेच्छतस्करसेवितम् ॥ 3-61-2(18153)
सालवेणुधवाश्वत्थतिन्दुकेङ्गुदिकिंशुकैः।
अर्जुनारिष्टसंछन्नं स्यन्दनैश्च सशाल्मलैः ॥ 3-61-3(18154)
जम्ब्वाम्रलोध्रखदिरशाकवेत्रसमाकुलम्।
पद्मकामलकप्लक्षकदम्बोदुम्बरावृतम् ॥ 3-61-4(18155)
बदरीबिल्वसंछन्नं न्यग्रोधैश्च समाकुलम्।
प्रियालतालखर्जूरहरीतकिबिभीतकैः ॥ 3-61-5(18156)
नानाधातुशतैर्नद्धान्विविधानपि चाचलान्।
निकुञ्जान्पक्षिसंघुष्टान्दरीश्चाद्भुतदर्शनाः ॥ 3-61-6(18157)
नदी सरांसि वापीश्च विविधांश्चरतो द्विजान्।
सा बहून्भीमरूपांश्च पिशाचोरगराक्षसान् ॥ 3-61-7(18158)
पल्वलानि तटाकानि गिरिकूटानि सर्वशः।
सरित्सरांसि च तदा ददर्शाद्भुतदर्शनाम् ॥ 3-61-8(18159)
यूथशो ददृशे चात्र विदर्भाधिपनन्दिनी।
महिषान्वराहान्गोमायूनृक्षवानरपन्नगान् ॥ 3-61-9(18160)
तेजसा यशसा लक्ष्म्या स्थित्या च परया युता।
वैर्दभी विचचारैका नलमन्वेषती तदा ॥ 3-61-10(18161)
नाबिभ्यत्सा नृपसुता भैमी तत्राथ कस्यचित्।
दारुणामटवीं प्राप्य भर्तृव्यसनकर्शिता ॥ 3-61-11(18162)
विदर्भतनया राजन्विललाप सुदुःखिता।
भर्तृशोकपरीताङ्गी शिलातलमथाश्रिता ॥ 3-61-12(18163)
दमयन्त्युवाच। 3-61-13x(1935)
सिह्योरस्क महाबाहो निषधानां जनाधिप।
क्वनु राजन्गतोसि त्वं त्यक्त्वा मां विजने वने ॥ 3-61-13(18164)
अश्वमेधादिभिर्वीर क्रतुभिश्चाप्तदक्षिणैः।
कथमिष्ट्वा नरव्याघ्र मयि मिथ्या प्रवर्तसे ॥ 3-61-14(18165)
यत्त्वयोक्तं नरश्रेष्ठ मत्समक्षं महाद्युते।
कर्तुमर्हसि कल्याण तदृतं पार्थिवर्षभ ॥ 3-61-15(18166)
यच्चोक्तं विहगैर्हंसैः समीपे तव भूमिप।
मत्सकाशे च तैरुक्तं तदवेक्षितुमर्हसि ॥ 3-61-16(18167)
चत्वार एकतो वेदाः साङ्गोपाङ्गाः सविस्तराः।
स्वधीता मनुजव्याघ्र सत्यमेकं किलैकतः ॥ 3-61-17(18168)
तस्मादर्हसि शत्रुघ्न सत्यं कर्तुं नरेश्वर।
उक्तवानसि यद्वीर मत्सकाशे पुरा वचः ॥ 3-61-18(18169)
हा वीर ननुनामाहमिष्टा किल तवानघ।
अस्यामटव्यां घोरायां किं मां न प्रतिभाषसे ॥ 3-61-19(18170)
भर्त्सयत्येष मां रौद्रो व्यात्तास्यो दारुणाकृतिः।
अरण्यराट् क्षुधाविष्टः किं मां न त्रातुमर्हसि ॥ 3-61-20(18171)
न मे त्वदन्या काचिद्धि प्रियाऽस्तीत्यब्रवीस्तदा।
तामृतां कुरु कल्याण पुरोक्तां भारतीं नृप ॥ 3-61-21(18172)
उन्मत्तां विलपन्तीं मां भार्यामिष्टां नराधिप।
ईप्सितामीप्सितोसि त्वं किं मां न प्रतिभाषसे ॥ 3-61-22(18173)
कृशां दीनां विवर्णां च मलिनां वसुधाधिप।
वस्त्रार्धप्रावृतामेकां विलपन्तीमनाथवत् ॥ 3-61-23(18174)
यूथभ्रष्टामिवैकां मां हरिणीं पृथुलोचन।
न मानयसि मामार्य रुदन्तीमरिकर्शन ॥ 3-61-24(18175)
महाराज महारण्ये मामिहैकाकिनीं सतीम्।
आभाषमाणां स्वां पत्नीं किं मां न प्रतिभाषसे ॥ 3-61-25(18176)
कुलशीलोपसंपन्नां चारुसर्वाङ्गशोभनाम्।
`अनुव्रतां महाराज किं मां न प्रतिभाषसे ॥' 3-61-26(18177)
नाद्यत्वां प्रतिपश्यामि गिरावस्मिन्नरोत्तम।
वने चास्मिन्महाधोरे सिंहव्याघ्रनिषेविते ॥ 3-61-27(18178)
शयानमुपविष्टं वा स्थितं वा निषधाधिप।
प्रस्थितं वा नरश्रेष्ठ मम शोकनिबर्हण ॥ 3-61-28(18179)
कं नु पृच्छामि दुःखार्ता त्वदर्थे शोककर्शिता।
कच्चिद्दृष्टस्त्वयाऽरण्ये संगत्येति नलो नृपः ॥ 3-61-29(18180)
को नु मे कथयेदद्य वनेऽस्मिन्विष्ठितं नृपम्।
अभिरूपं महात्मानं परव्यूहविनाशनम् ॥ 3-61-30(18181)
यमन्वेपसि राजानं नलं पद्मनिभेक्षणम्।
अयंस इति कस्याद्य श्रोष्यामि मधुरां गिरम् ॥ 3-61-31(18182)
अरण्यराडयं श्रीमांश्चतुर्दंष्ट्रो महाहनुः।
शार्दूलोऽभिमुखोऽभ्येति पृच्छाम्येनमशङ्किता ॥ 3-61-32(18183)
भवान्मृगाणामधिपस्त्वमस्मिन्कानने प्रभुः।
विदर्भराजतनयां दमयन्तीति विद्धि माम् ॥ 3-61-33(18184)
निषधाधिपतेर्भार्यां नलस्यामित्रघातिनः।
पतिमन्वेषतीमेकां कृपणां शोककर्शिताम् ॥ 3-61-34(18185)
आश्वासय मृगेन्द्रेह यदि दृष्टस्त्वया नलः।
`सिंहस्कन्धो महाबाहुः पद्मपत्रनिभेक्षणः ॥' 3-61-35(18186)
अथवाऽरण्यनृपते नलं यदि न शंससि।
मां खादय मृगश्रेष्ठ दुःखादस्माद्विमोचय ॥ 3-61-36(18187)
श्रुत्वाऽरण्ये विलपितं ममैष मृगराट् स्वयम्।
यात्येष मृष्टसलिलामापगां सागरोपमाम् ॥ 3-61-37(18188)
इमं शिलोच्चयं पृच्छे शृङ्गैर्बहुभिरुच्छितैः।
विराजितं दिवस्पृग्भिर्नैकवर्णैर्मनोरमैः ॥ 3-61-38(18189)
नानाधातुसमाकीर्णं विविधोपलभूषितम्।
आस्यारण्यस्य महतः केतुभूतमिवोच्छितम् ॥ 3-61-39(18190)
सिंहशार्दूलमातङ्गवराहर्क्षमृगायुतम्।
पतत्रिभिर्बहुविधैः समन्तादनुनादितम् ॥ 3-61-40(18191)
किंशुकाशोकबकुलपुन्नागैरुपशोभितम्।
[कर्णिकारधवप्लक्षैः सुपुष्पैरुपशोभितम् ॥] 3-61-41(18192)
सरिद्भिः सविहङ्गाभिः शिखरैश्च समाकुलम्।
`पृथिव्या रुचिराकारं चूडामणिमिव स्थितम्'।
निरिराजमिमं तावत्पृच्छामि नृपतिं प्रति ॥ 3-61-42(18193)
भगवन्नचलश्रेष्ठ दिव्यद्रशन विश्रुत।
शरण्य बहुकल्याण नमस्तेऽस्तु महीधर ॥ 3-61-43(18194)
प्रणमे त्वाऽभिगम्याहं राजपुत्रीं निबोध माम्।
राजस्नुषां राजभार्यां दमयन्तीति विश्रुताम् ॥ 3-61-44(18195)
राजा विदर्भाधिपतिः पिता मम महारथः।
भीमो नाम क्षितिपतिश्चातुर्वर्ण्यस्य रक्षिता ॥ 3-61-45(18196)
राजसूयाश्वमेधानां क्रतूनां दक्षिणावताम्।
आहर्ता पार्थिवश्रेष्ठः पृथुचार्वञ्चितेक्षणः ॥ 3-61-46(18197)
ब्रह्मण्यः साधुवृत्तश्च सत्यवागनसूयकः।
शीलवान्वीर्यसंपन्नः पृथुश्रीर्धर्मविच्छुचिः ॥ 3-61-47(18198)
सम्यग्गोप्ता विदर्भाणां निर्जितारिगणः प्रभुः।
तस्य मां विद्धि तनयां भगवंस्त्वामुपस्थिताम् ॥ 3-61-48(18199)
निषधेषु महाराजः श्वशुरो मे नरोत्तमः।
गृहीतनामा विख्यातो वीरसेन इति स्म ह ॥ 3-61-49(18200)
तस्य राज्ञः सुतो वीरः श्रीमान्सत्यपराक्रमः।
क्रमप्राप्तं पितुः स्वं यो राज्यं समनुशास्ति ह ॥ 3-61-50(18201)
नलो नामारिहा श्यामः पुण्यल्को इति श्रुतः।
ब्रह्मण्यो वेदविद्वाग्मी पुण्यकृत्सोमपोऽग्निचित् ॥ 3-61-51(18202)
यष्टा दाता च योद्धा च सम्यक्चैव प्रशासिता।
तस्य मामचलश्रेष्ठ विद्धि भार्यामिहागताम् ॥ 3-61-52(18203)
त्यक्तश्रियं भर्तृहीनामनाथां व्यसनान्विताम्।
अन्वेषमाणां भर्तारं नलं नरवरोत्तमम् ॥ 3-61-53(18204)
खमुल्लिखद्भिरेतैर्हि त्वया शृङ्गशतैर्नृपः।
कच्चिद्दृष्टोऽचलश्रेष्ठ वनेऽस्मिन्दारुणे नलः ॥ 3-61-54(18205)
विक्रान्तः सत्त्ववान्वीरो भर्ता मम महायशाः।
निषधानामधिपतिः कच्चिद्दृष्टस्त्वया नलः ॥ 3-61-55(18206)
कं मीं विलपतीमेकां पर्वतश्रेष्ठ विह्वलाम्।
गिरा नाश्वासयस्यद्यस्वां सुतामिव दुखितां ॥ 3-61-56(18207)
वीर विक्रान्त धर्मज्ञ सत्यसंध महीपते।
यद्यस्यस्मिन्वने राजन्दर्शयात्मानमात्मना ॥ 3-61-57(18208)
कदा सुस्निग्गम्भीरां जीमूतस्वनसन्निभाम्।
श्रोष्यामि नैषधस्याहं वाचं ताममृतोपमाम् ॥ 3-61-58(18209)
वैदर्भ्येहीति विस्पष्टां शुभां राज्ञो महात्मनः।
आत्माभिधायिनीमृद्धां मम शोकविनाशिनीं ॥ 3-61-59(18210)
इतिसा तं गिरिश्रेष्ठमुक्त्वा पार्थिवनन्दिनी।
दमयन्ती ततो भूयो जगाम दिशमुत्तराम् ॥ 3-61-60(18211)
सा गत्वा त्रीनहोरात्रान्ददर्श परमाङ्गना।
तापसारण्यमतुलं दिव्यकाननशोभितम् ॥ 3-61-61(18212)
वसिष्ठभृग्वत्रिसमैस्तापसैरुपशोभितम्।
नियतैः संयताहारैर्दमशौचसमन्वितैः ॥ 3-61-62(18213)
अब्भक्षैर्वायुभक्षैश्च पत्राहारैस्तथैव च।
जितेन्द्रियैर्महाभागैः स्वर्गमार्गदिदृक्षुभिः ॥ 3-61-63(18214)
वल्कलाजिनसंवीतैर्मुनिभिः संयतेन्द्रियैः।
तापसाध्युषितं रम्यं ददर्शाश्रममण्डलम् ॥ 3-61-64(18215)
नानामृगगणैर्जुष्टं शाखामृगगणायुतम्।
तापसैः समुपेतं च सा दृष्ट्वैव समाश्वसत् ॥ 3-61-65(18216)
सुभ्रूः सुकेशी सुश्रोणी सुकुचा सुद्विजानना।
वर्चस्विनी सुप्रतिष्ठा स्वसितायतलोचना ॥ 3-61-66(18217)
सा विवेशाश्रमपदं वीरसेनसुतप्रिया।
योषिद्रत्नं महाभागा दमयन्ती तपस्विनी ॥ 3-61-67(18218)
साऽभिवाद्य तपोवृद्धान्विनयावनता स्थिता।
स्वागतं त इतिप्रोक्ता तैः सर्वैस्तापसोत्तमैः ॥ 3-61-68(18219)
पूजां चास्या यथान्यायं कृत्वा तत्रतपोधनाः।
आस्यतामित्यथोचुस्ते ब्रूहि किं करवामहे ॥ 3-61-69(18220)
तानुवाच वरारोहा कच्चिद्भगवतामिह।
तपःस्वग्निषु धर्मेषु मृगपक्षिषु चानघाः ॥ 3-61-70(18221)
कुशलं वो महाभागाः स्वधर्माचरणेषु च।
तैरुक्ता कुशलं भद्रे सर्वत्रेति यशस्विनी ॥ 3-61-71(18222)
ब्रूहि सर्वानवद्याङ्गि का त्वं किंच चिकीर्षसि।
दृष्ट्वैव ते परंरूपं द्युतिं च परमामिह ॥ 3-61-72(18223)
विस्मयो नः समुत्पन्नः समाश्वसिहि मा शुचः।
अस्यारण्यस्य देवी त्वमुताहोऽस्य महीभृतः।
अस्याश्च नद्याः कल्याणि वद सत्यमनिन्दिते ॥ 3-61-73(18224)
साऽब्रवीत्तानृपीन्नाहमरण्यस्यास्य देवता।
न चाप्यस्य गिरर्विप्रा नैव नद्याश्च देवता ॥ 3-61-74(18225)
मानुषीं मां विजानीत यूयं सर्वेतपोधनाः।
विस्तरेणाभिधास्यामि तन्मे शृणुत सर्वशः ॥ 3-61-75(18226)
विदर्भेपु महीपालो भीमो नाम महीपतिः।
तस्य मां तनयां सर्वे जानीत द्विजसत्तमाः ॥ 3-61-76(18227)
निपधाधिपतिर्धीमान्नलो नाम महायशाः।
वीरः संग्रामजिद्विद्वान्मम भर्ता विशांपतिः ॥ 3-61-77(18228)
देवताभ्यर्चनपरो द्विजातिजनवत्सलः।
गोप्ता निपधवंशस्य महातेजा महाबलः ॥ 3-61-78(18229)
सत्यवान्धर्मवित्प्राज्ञः सत्यसंधोऽरिमर्दनः।
ब्रह्मण्यो दैवतपरः श्रीमान्परपुरंजयः ॥ 3-61-79(18230)
नलो नाम नृपश्रेष्ठो देवराजसमद्युतिः।
मम भर्ता विशालाक्षः पूर्णेन्दुवदनोऽरिहा ॥ 3-61-80(18231)
आहर्ता क्रतुमुख्यानां वेदवेदाङ्गपारगः।
सपत्नानां मृधे हन्ता रविसोमसमप्रभः ॥ 3-61-81(18232)
स कैश्चिन्निकृतिप्रज्ञैरनार्यैरकृतात्मभिः।
आहृय पृथिवीपालः सत्यधर्मपरायणः।
देवनेकुशलैर्जिह्मैर्जितो राज्यं वसूनि च ॥ 3-61-82(18233)
तस्य मामवगच्छध्वं भार्यां राजर्पभस्य वै।
दमयन्तीति विख्यातां भर्तुर्दर्शनलालसाम् ॥ 3-61-83(18234)
सा वनानि गिरींश्चैव सरांसि सरितस्तथा।
पल्वलानि च सर्वाणि तथाऽरण्यानि सर्वशः ॥ 3-61-84(18235)
अन्वेपमाणआ भर्तारं नलं रणविशारदम्।
महात्मानं कृतास्त्रं च विचरामीह दुःखिता ॥ 3-61-85(18236)
कच्चिद्भगवतां रम्यं तपोवनमिदं नृपः।
भवेत्प्राप्तो नलो नाम निपधानां जनाधिपः ॥ 3-61-86(18237)
यत्कृतेऽहमिदं दुःखं प्रपन्ना भृशदारुणम्।
वनं प्रतियं धोरं शार्दूलमृगसेवितम् ॥ 3-61-87(18238)
यदि कैश्चिदहोरात्रैर्न द्रक्ष्यामि नलं नृपम्।
आत्मानं श्रेयसा योक्ष्ये देहस्यास्य विमोक्षणात् ॥ 3-61-88(18239)
कोनु मे जीवितेनार्थस्तमृते पुरुषर्षभम्।
कथं भविष्याम्यद्याहं भर्तृशोकाभिपीडिता ॥ 3-61-89(18240)
तथा विलपतीमेकामरण्ये भीमनन्दिनीम्।
दमयन्तीमथोचुस्ते तापसाः सत्यवादिनः ॥ 3-61-90(18241)
उदर्कस्तव कल्याणि कल्याणो भविता शुभे।
वयं पश्याम तपसा क्षिप्रं द्रक्ष्यसि नैषधम् ॥ 3-61-91(18242)
निपधानामधिपतिं नलं रिपुनिपातिनम्।
भैमि धर्मभृतां श्रेष्ठं द्रक्ष्यसे विगतज्वरम् ॥ 3-61-92(18243)
विमुक्तं सर्वपापेभ्यः सर्वरत्नसमन्वितम्।
तदेव नगरं श्रेष्ठं प्रशासतमरिन्दमम् ॥ 3-61-93(18244)
द्विपतां भयकर्तारं सुहृदां शोकनाशनम्।
पतिमेष्यसि कल्याणि कल्याणाभिजनं नृपम् ॥ 3-61-94(18245)
एवमुक्त्वा नलस्येष्टां महिषीं पार्थिवात्मजाम्।
अन्तर्हितास्तापसास्ते साग्निहोत्राश्रमास्तथा ॥ 3-61-95(18246)
सा दृष्ट्वा महदाश्चर्यं विस्मिता ह्यभवत्तदा।
दमयन्त्यनवद्याङ्गी वीरसेननृपस्नुषा ॥ 3-61-96(18247)
`चिन्तयामास वैदर्भी किमेतद्दृष्टवत्यहम्' ॥ 3-61-97(18248)
किंनु स्वप्नो मया दृष्टः कोऽयंविधिरिहाभवत्।
क्वनु ते तापसाः सर्वे क्व तदाश्रममण्डलम् ॥ 3-61-98(18249)
क्व सा पुण्यजला रम्या नदी द्विजनिषेविता।
क्वनु ते ह नगा हृद्याः फलपुष्पोपशोभिताः ॥ 3-61-99(18250)
`इत्येवं नरशार्दूल विस्मिता कमलेक्षणा।'
ध्यात्वा चिरं भीमसुता दमयन्ती शुचिस्मिता।
भर्तृशोकपरा दीनाविवर्णवदनाऽभवत् ॥ 3-61-100(18251)
सा गत्वाऽथापरां भूमिं बाष्पसंदिग्धया गिरा।
विललापाश्रुपूर्णाक्षी दृष्ट्वाऽशोकतरुं ततः ॥ 3-61-101(18252)
उपगम्य तरुश्रेष्ठमशोकं पुष्पितं वने।
पल्लवापीडितं हृद्यं विहङ्गैरनुनादितम् ॥ 3-61-102(18253)
अहो बतायमगमः श्रीमानस्मिन्वनान्तरे।
आपीडैर्बहुभिर्भाति श्रीमान्पर्वतराडिव ॥ 3-61-103(18254)
विशोकां कुरु मां क्षिप्रमशोक प्रियदर्शन।
वीतशोकभयाबाधं कच्चित्त्वं दृष्टवान्नृपम् ॥ 3-61-104(18255)
नलं नामारिदमनं नमयन्त्याः प्रियं पतिम्।
निमधानामधिपतिं दृष्टवानसि मे प्रियम् ॥ 3-61-105(18256)
एकवस्त्रार्धसंवीतं सुकुमारतनुत्वचम्।
व्यसनेनार्दितं वीरमरण्यमिदमागतम् ॥ 3-61-106(18257)
यथा विशोका गच्छेयमशोकनग तत्कुरु।
सत्यनामा भवाशोक मम शोकविनाशनात् ॥ 3-61-107(18258)
एवंसाऽशोकवृत्तं तमार्ता वै परिगम्य ह।
जगाम दारुणतरं देशं भैमी वराङ्गना ॥ 3-61-108(18259)
सा ददर्श नागान्नैकान्नैकाश्च सरितस्तथा।
नैकांश्च पर्वतान्रम्यान्नैकांश्च मृगपक्षिणः ॥ 3-61-109(18260)
कन्दरांश्च नितम्बांश्च नदीश्चाद्भुतदर्शनाः।
ददर्श तान्भीमसुता पतिमन्वेषती तदा ॥ 3-61-110(18261)
गत्वा प्रकृष्टमध्वानं दमयन्ती शुचिस्मिता।
ददर्शाथ महासार्थं हस्त्यश्वरथसंकुलम् ॥ 3-61-111(18262)
उत्तरन्तं नदीं रम्यां प्रसन्नसलिलां शुभाम्।
सुशीततोयां विस्तीर्णां ह्रदिनीं वेतसैर्वृताम् ॥ 3-61-112(18263)
प्रोद्धुष्टां क्रौञ्चकुररैश्चक्रबाकोपकूजिताम्।
कूर्मग्राहझवाकीर्णां विपुलद्वीपशोभिताम् ॥ 3-61-113(18264)
सा दृष्ट्वैव महासार्थं नलपत्नी यशस्विनी।
उपसर्प्य वरारोहा जनमध्यं विवेश ह ॥ 3-61-114(18265)
उन्मत्तरूपा शोकार्ता तथा वस्त्रार्धसंवृता।
कृशा विवर्णा मलिना पांसुध्वस्तशिरोरुहा ॥ 3-61-115(18266)
तां दृष्ट्वा तत्रमनुजाः केचिद्भीताः प्रदुद्रुवुः।
केचिच्चिन्तापरास्तस्थुः केचित्तत्रविचुक्रुशुः ॥ 3-61-116(18267)
प्रहसन्ति स्म तां केचिदभ्यसूयन्ति चापरे।
कुर्वन्त्यस्यांदयांकेचित्पप्रच्छुश्चापि भारत ॥ 3-61-117(18268)
काऽसि कस्यासि कल्याणि किं वा मृगयसे वने।
त्वां दृष्ट्वा व्यथिताः स्मेह कच्चित्त्वमसिं मानुषी ॥ 3-61-118(18269)
वद सत्यं वनस्यास्य पर्वतस्याथवा दिशः।
देवता त्वं हि कल्याणि त्वां वयं शरणं गताः ॥ 3-61-119(18270)
यक्षी वा राक्षसी वा त्वमुताहोसि सुराङ्गना।
सर्वथाकुरु नः स्वस्ति रक्ष चास्माननिन्दिते ॥ 3-61-120(18271)
यथाऽयंसर्वथा सार्थः क्षेमी शीघ्रमितो व्रजेत्।
तथा विधत्स्व कल्याणि यथा श्रेयो हि नो भवेत् ॥ 3-61-121(18272)
तथोक्ता तेन सार्थेन दमयन्ती नृपात्मजा।
प्रत्युवाच ततः साध्वी भर्तृव्यसनपीडिता ॥ 3-61-122(18273)
सार्तवाहं च सार्थं च जना ये चात्र केचन।
युवस्थविरबालाश् सार्थस्य च पुरोगमाः ॥ 3-61-123(18274)
मानुषीं मां विजानीत मनुजाधिपतेः सुताम्।
नृपस्नुषां राजभार्यां भर्तृदर्शनलालसाम् ॥ 3-61-124(18275)
विदर्भराण्मम पिता भर्ता राजा च नैषधः।
नलोनाम महाभागस्तं मार्गाम्यपराजितम् ॥ 3-61-125(18276)
यदि जानीत नृपतिं क्षिप्रं शंसत मे प्रियम्।
नलं पुरुषशार्दूलममित्रगणसूदनम् ॥ 3-61-126(18277)
तामुवाचानवद्याङ्गीं सार्थस्य महतः प्रभुः।
सार्थवाहः शुचिर्नाम शृणु कल्याणि मद्वचः ॥ 3-61-127(18278)
अहं सार्थस्य नेता वै सार्थवाहः शुचिस्मिते।
मनुष्यं नलनामानं न पश्यामि यशस्विनि ॥ 3-61-128(18279)
कुञ्जरद्वीपिमहिषशार्दूलर्क्षमृगानपि।
पश्याम्यस्मिन्वने कृत्स्ने ह्यमनुष्यनिषेविते ॥ 3-61-129(18280)
ऋते त्वां मानुषीं मर्त्यं न पश्यामि महावने।
तथा नो यक्षराडद्य मणिभद्रः प्रसीदतु ॥ 3-61-130(18281)
साऽब्रवीद्वणिजः सर्वान्सार्थवाहं च तं ततः।
क्वनु यास्यति सार्थोऽयमेतदाख्यातुमर्हसि ॥ 3-61-131(18282)
सार्तवाह उवाच। 3-61-132x(1936)
सार्थोऽयं चेदिराजस्य सुबाहोः सत्यदर्शिनः।
क्षिप्रं जनपदं गन्ता लाभाय मनुजात्मजे ॥ 3-61-132(18283)

इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि एकषष्टितमोऽध्यायः ॥ 61 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-61-1 प्रतिभयं भीषणम्। झिल्लिका तीक्ष्णशब्दः पतङ्गविशेषः ॥ 3-61-47 ब्रह्मण्यः ब्रह्मणि ब्राह्मणजातौ वेदे वैदिककर्मणि परमात्मनि वा साधुः ॥ 3-61-66 सुद्विजानना शोभनदन्तयुक्तमुखी। सुप्रतिष्ठा सुजघना ॥ 3-61-67 वीरसेनसुतस्य नलस्य प्रिया ॥ 3-61-82 सधूतैर्निकृतिप्रज्ञैरकल्याणैर्नराधमैरिति क. पाठः ॥ 3-61-88 श्रेयसा मोक्षेण योक्ष्ये योजयिष्ये। योगबलेन देहे त्यक्त्वा मोक्षं प्राप्स्ये इत्यर्तः ॥ 3-61-91 उदर्कः उत्तरकालः ॥ 3-61-102 पल्लवैः आपीडितं भूषितम् ॥ 3-61-103 अगमः वृक्षः। आपीडैः पुष्पफलादिरूपैरलंकारैः ॥ 3-61-111 महासार्थं महान्तं जनसमूहम् ॥ 3-61-114 वरारोहा विस्तीर्णजघना ॥ 3-61-115 पांसुयुक्ताः ध्वस्ताः मुक्तबन्धाश्च शिरोरुहाः केशा यस्याः ॥ 3-61-125 मार्गामि अन्वेषयामि ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.